|

Chapter 10 – विभूतियोग Shloka-17

Chapter-10_1.17

SHLOKA

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।10.17।।

PADACHHED

कथम्‌, विद्याम्_अहम्‌, योगिन्_त्वाम्, सदा, परिचिन्तयन्‌,
केषु, केषु, च, भावेषु, चिन्त्य:_असि, भगवन्_मया ॥ १७ ॥

ANAVYA

(हे) योगिन्! अहं कथं सदा परिचिन्तयन्‌ त्वां विद्याम्,
च (हे) भगवन्! (त्वम्) केषु केषु भावेषु मया चिन्त्य: असि।

ANAVYA-INLINE-GLOSS

(हे) योगिन्! [हे योगेश्वर!], अहम् [मैं], कथम् [किस प्रकार], सदा [निरन्तर], परिचिन्तयन् [चिन्तन करता हुआ], त्वाम् [आपको], विद्याम् [जानूँ,],
च [और], (हे) भगवन्! (त्वम्) [हे भगवन्! (आप)], केषु केषु [किन-किन], भावेषु [भावों में], मया [मेरे द्वारा], चिन्त्य: [चिन्तन करने योग्य], असि [हैं?],

ANUVAAD

हे योगेश्वर! मैं किस प्रकार निरन्तर चिन्तन करता हुआ आपको जानूँ,
और हे भगवन्! (आप) किन-किन भावों में मेरे द्वारा चिन्तन करने योग्य हैं?

Similar Posts

Leave a Reply